Thursday, October 26, 2017

#सहजोक्तं संस्कृतेन ।


दृष्टान्तकथा ।
कस्मिञ्चित् नगरे
प्राचीन: देवालय: आसीत् ।
तस्य महिमा जनेषु ख्यात:। सर्वे भक्ता: तत्र गच्छन्ति स्म ।  नगरजना: सोत्साहं ,स्वयंप्रेरणया देवालये विविधान् भक्त्युपक्रमान्  प्रचालयन्ति स्म । न कोऽपि नेता आसीत् न वा अनुयायी तत्र । सर्वे समानत्वेन कार्यं कुर्वन्ति स्म । नगरजनानां निरपेक्षसेवया प्रसन्ना आसीत् देवता ।देवालयकारणात् नगरजनेषु एकता अवर्धत। सर्वे जना: श्रद्धावन्त: भूत्वा संघशक्तिमनुभूतवन्त:।नगरस्य कीर्ति: दिशि दिशि प्रसृता ।
एवं दिनानि व्यतीतानि ।
एकदा केचन परदेशीया: जना: नगरकीर्तिं श्रुत्वा नगरमागतवन्त:। तत्रत्यं वातावरणम् अनुभूय प्रभाविता: ते मनसि चिन्तितवन्त ,"कथम् एतस्य मंदिरस्य महत्वं न्यूनं भवेत् येन नगरस्य प्रसिद्धि: अल्पीभवेत् ।  जनेषु अस्माकं प्रभाव: वर्धेत ? "
नगरवासिन: तु तेषां हेतुं  न अवगतवन्त:।
नगरजनानां  प्रशंसां कुर्वन्त: ते देवालयं निरीक्षितवन्त: । ते दृष्टवन्त: केचन भक्ता: स्वमहिमानं वर्धयितुमिच्छन्ति । अवसरं प्राप्य परदेशीया: तान् भक्तान् तीर्थाटनार्थं तेषां नगरे आहूतवन्त:। तीर्थाटनात् प्रत्यागत्य स्वाभिमानवर्धिता: भक्ता: नूतनदेवालयं निर्मितवन्त:। अधुना नगरे द्वौ देवालयौ अभवताम् ।
अधुना जनानां पुरत: पर्याय: उपलब्ध:। केचन जना: पुरातनं देवालयम् एव  अगच्छन् । केचन तु नुतनं मंदिरम् एव  अगच्छन् । केचन तु द्वे स्थाने   अगच्छन्। स्वमहात्म्यं वर्धुकामा: नुतनदेवालयकारा: अधुना संतुष्टा:।
शनै: शनै: एकता क्षीणा जाता । एकमेवाद्वितीयदेवालयकारणात् लब्धा ख्याति: अपरदेवालयकारणात् अपगता । नगरस्य एकमेवाद्वितीयस्थानं तु लुप्तम् । यत्र संघे शक्ति: अनुभूता  जनै: तत्र भेदे नाश: अपि अनुभूत:। देवालयभेदत्वात् विभक्ता भक्ति: ।
घटनाक्रमं निरीक्षमाणा: सामान्यपर्यटका: मनसि चिन्तितवन्त: यत् ,
" सर्वे यत्र विनेतार:
सर्वे पण्डितमानिन:।
सर्वे महत्त्वमिच्छन्ति
राष्ट्रं तदवसीदति ॥  "
©डॉ. प्रज्ञा देशपांडे .
नागपूर .

2 comments:

  1. संघे शक्तिः भेदे नाशः । उत्तमम् कथा ।

    ReplyDelete